|
|
 |
 |
|
|
१६आश्रमवासिकपर्व.jpg)
॥ श्रीः ॥
16.41. अध्यायः 041
अथ नारदागमनपर्व ॥ 3 ॥
Mahabharata - AshramaVasika Parva - Chapter Topics
नारदेन युधिष्ठिरंप्रति दृथराष्ट्रादिदाहकाग्नेर्मन्त्रपूतत्वकथनम्॥ 1 ॥ युधिष्ठिरेण युयुत्सुपुरस्कारेण गान्धारीधृतराष्ट्रयो रुदकदानपूर्वकं कुन्त्याश्च विधिवच्छ्राद्धदानम्॥ 2 ॥ ततो नारदगमनानन्तरं प्रजापालनेन निजनगरे भ्रात्रादिभिः सह सुखविहारः॥ 3 ॥
Mahabharata - AshramaVasika Parva - Chapter Text
नारद उवाच।
नासौ वृथाऽग्निना दग्धो यथा तत्र श्रुतं मया।
वैचित्रवीर्यो नृपतिर्न ते शोच्यो नराधिप॥ 16-41-1(98289)
वनं प्रविशतानेन वायुभक्षेण धीमता।
अग्नयः कारयित्वेष्टिमुत्सृष्टा इति नः श्रुतम्॥ 16-41-2(98290)
याजकास्तु ततस्तस्य तानग्नीन्निर्जने वने।
समुत्सृज्य यथाकामं जग्मुर्भरतसत्तम॥ 16-41-3(98291)
स विवृद्धस्तदा वह्निर्वने तस्मिन्नभूत्किल।
तेन तद्वनमादीप्तमिति ते तापसाऽब्रुवन्॥ 16-41-4(98292)
स राजा जाह्नवीतीरे यथा ते कथितं मया।
तेनाग्निना समायुक्तः स्वेनैव भरतर्षभ॥ 16-41-5(98293)
एवमावेदयामासुर्मुनयस्ते ममानघ।
ये ते भागीरथीतीरे मया दृष्टा युधिष्ठिर॥ 16-41-6(98294)
एवं स्वेनाग्निना राजा समायुक्तो महीपते।
मा शोचिथास्त्वं नृपतिं गतः स परमां गतिम्॥ 16-41-7(98295)
गुरुशुश्रूषया चैव जननी ते जनाधिप।
प्राप्ता सुमहतीं सिद्धिमिति मे नात्र संशयः॥ 16-41-8(98296)
कर्तुमर्हसि राजेन्द्र तेषां त्वमुदकक्रियाम्।
भ्रातृभिः सहितः सर्वैरेतदत्र विधीयताम्॥ 16-41-9(98297)
वैशम्पायन उवाच। 16-41-10x(8074)
ततः स पृथिवीपालः पाण्डवानां धुरंधरः।
निर्ययौ सहसोदर्यः सदारश्च नरर्षभः॥ 16-41-10(98298)
पौरजानपदाश्चैव राजभक्तिपुरस्कृताः।
गङ्गां प्रजग्मुरभितो वाससैकेन संवृताः॥ 16-41-11(98299)
ततोऽवगाह्य सलिले सर्वे तु कुरुपुङ्गवाः।
युयुत्सुमग्रतः कृत्वा ददुस्तोयं महात्मने॥ 16-41-12(98300)
गान्धार्याश्च पृथायाश्च विधिवन्नामगोत्रतः।
शाचं निवर्तयन्तस्ते तत्रोषुर्नगराद्बहिः॥ 16-41-13(98301)
प्रेषयामास स नरान्विधिज्ञानाप्तकारिणः।
गङ्गाद्वारं कुरुश्रेष्ठो यत्र दग्धोऽभवन्नृपः। 16-41-14(98302)
तत्रैव तेषां तुल्यानि गङ्गाद्वारेऽन्वशात्तदा।
कर्तव्यानीति पुरुषान्दत्तदेयान्महीपतिः॥ 16-41-15(98303)
द्वादशेऽहनि तेभ्यः स कृतशौचो नराधिपः।
ददौ श्राद्धानि विधिवद्दक्षइणावन्ति पाण्डवः॥ 16-41-16(98304)
धृतराष्ट्रं समुद्दिश्य ददौ स पृथिवीपतिः।
सुवर्णं रजतं गाश्च शय्याश्च सुमहाधनाः॥ 16-41-17(98305)
गान्धार्याश्चैव तेजस्वी पृथायाश्च पृथक्पृथक्।
सङ्कीर्त्य नामनी राजा ददौ दानमनुत्तमम्॥ 16-41-18(98306)
यो यदिच्छति यावच्च तावत्स लभते द्विजः।
शयनं भोजनं यानं मणिरत्नमथो धनम्॥ 16-41-19(98307)
यानमाच्छादनं भोगान्दासीश्च समलङ्कृताः।
ददौ राजा समुद्दिश्य तयोर्मात्रोर्महीपतिः॥ 16-41-20(98308)
ततः स पृथिवीपालो दत्त्वा श्राद्धान्यनेकशः।
प्रविवेश पुनर्धीमान्नगरं वारणाह्वयम्॥ 16-41-21(98309)
ते चापि राजवचनात्पुरुषा ये गताऽभवन्।
सङ्कल्प्य तेषां कुल्यानि पुनः प्रत्यागमंस्ततः॥ 16-41-22(98310)
माल्यैर्गन्धैश्च विविधैरर्चयित्वा यथाविधि।
कुल्यानि तेषां संयोज्य तदाचख्युर्महीपतेः॥ 16-41-23(98311)
समाश्वास्य तु राजानं धर्मात्मानं युधिष्ठिरम्।
नारदोप्यगमत्प्रीतः परमर्षिर्यथोप्सितम्॥ 16-41-24(98312)
एवं वर्षाण्यतीतानि धृतराष्ट्रस्य धीमतः।
वनवासे तथा त्रीणि नगरे दशपञ्च च॥ 16-41-25(98313)
हतपुत्रस्य सङ्ग्रामे दानानि ददतः सदा।
ज्ञातिसम्बन्धिमित्राणां भ्रातॄणां स्वजनस्य च॥ 16-41-26(98314)
युधिष्ठिरस्तु नृपतिर्नातिप्रीतमनास्तदा।
धारयामास तद्राज्यं निहतज्ञातिबान्धवः॥ ॥ 16-41-27(98315)
इति श्रीमन्महाभारते शतसाहस्र्यां संहितायां वैयासिक्यां आश्रमिवासिकपर्वणि नारदागमनपर्वणि एकचत्वारिंशोऽध्यायः॥ ॥ समाप्तं नारदागमनपर्व ॥ 3 ॥ आश्रमवासिकपर्व च॥ 15 ॥ अस्यानन्तरं मौसलपर्व भविष्यति। तस्यायमाद्यः श्लोकः। वैशम्पायन उवाच। षट्त्रिंशे त्वथ सम्प्राप्ते वर्षे कौरवनन्दनः। ददर्श विपरीतानि निमित्तानि युधिष्ठिरः॥ इदमाश्रमवासिकपर्व कुंभघोणस्थेन टी.आर्. कृष्णाचार्येण टी.आर्.व्यासाचार्येण च मुम्बय्यां निर्णयसागरमुद्रायन्त्रे मुद्रापितम्। शकाब्दाः 1932 सन 1910.
Mahabharata - AshramaVasika Parva - Chapter Footnotes
16-41-15 तत्रैव तेषां कृत्यानीति झ.पाठः॥ 16-41-22 सङ्कल्प्य एकीकुत्य कुल्यानि अस्थीनि प्रत्यागमन् सङ्गामिति शेषः॥ 16-41-23 संयोज्य गङ्गयेति शेषः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|